कृतवन्तवस्तथा घोरं गजाश्वरथसंक्षयम्।
तमनुस्मृत्य संग्रामं भृशं सीदति मे मन:।।56।।
न मया श्रुतपूर्वो वा दृष्टुपूर्व: कुतोऽपि वा।
तादृशो भुवि मर्त्योऽन्यों वासुदेवात् सुरोत्तमात्।।57।।
सम्यशगाह महाबाहुर्दन्तोवक्त्रो महीपति:।
सान्त्वयित्वां महावीर्यं संविधास्याम यत्क्षमम्।।58।।
वैशम्पायन उवाच
इति संचिन्य मनसा बलाबलविनिश्चयम्।
गमनाय मतिं चक्रे प्रसादयितुमच्युतम्।।59।।
चिन्तयानो नरेन्दस्तु बहुभिर्नयशालिभि:।
सूतमागधवन्दिभ्योे बोधित: स्तुतिमंगलै:।।60।।