स तान् नृपतिशार्दूल: शार्दूलानिव वेगितान्।
प्रीत्या परमया प्राह सुतान वीर्यकुतूहलात्।।6।।
विन्ध्यर्क्षवन्तावभितो द्वे पुर्यौ पर्वताश्रये।
निवेशयतु यत्नेन मुचुकुन्द: सुतो मम।।7।।
सह्यस्य चोपरिष्टात्तु दक्षिणां दिशमाश्रित:।
पद्मवर्णोऽपि मे पुत्रो निवेशयतु मा चिरम्।।8।।
तत्रैत परत: कान्ते देशे चम्पकभूषिते।
सारसो मे पुरं रम्यं निवेशयतु पुत्रक:।।9।।
हरितोऽयं महाबाहु: सागरे हरितोदके।
दीपं पन्नगराजस्य सुतो मे पालयिष्यति।।10।।