माधवो मे महाबाहुर्ज्येष्ठंपुत्रश्च धर्मवित्।
यौवराज्येन संयुक्तच: स्वेपुरं पालयिष्यति।।11।।
सर्वे नृपश्रियं प्राप्ता अभिषिक्ता: सचामरा:।
पित्रानुशिष्टांश्चात्वारो लोकपालोपमा नृपा:।।12।।
स्वं स्वं निवेशनं सर्वे भेजिरे नृपसत्तमा:।
पुरस्थानानि रम्याणि मृगयन्तो यथाक्रमम्।13।।
मुचुकुन्दश्च राजर्षिर्विन्ध्यमध्ययमरोचयत्।
स्वस्थानं नर्मदातीरे दारणोपलसंकटे।।14।।
स च तं शोधयामास विविक्तं च चकार ह।
सेतुं चैव समं चक्रे परिखाश्चामितोदका:।।15।।