वेणुदारि: श्रुतर्वा च क्रथश्चैवांशुमानपि।
अंगराजश्च बलवान् वंगानामधिपस्तथा।।16।।
कौसल्य: काशिराजश्च दशार्णाधिपतिस्था।
सुखेश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा।।17।।
मद्रराजश्च बलवांस्त्रिगर्तानामथेश्वर:।
शाल्वाराजश्च विक्रान्तो दरदश्च महाबल:।।18।।