तांश्च हत्वा विविशतुर्मध्यं रंगस्य तावुभौ।
नासत्यावश्विनौ स्वर्गादवतीर्णाविवेच्छया।।41।।
वृष्ण्यन्धकाश्च भोजाश्च ददृशुर्वनमालिनौ।
क्ष्वेडितोत्क्रुष्टनादेन बाह्वोरास्फोटितेन च।
सिंहनादैश्च तालैश्च हर्षयामासतुर्जनम्।।42।।
तौ दृष्ट्वा भोजराजस्तु विषसाद वृथामति:।
पौराणामनुरागं च हर्षं चालक्ष्य भारत।।43।।
तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम्।
अवतीर्णोऽर्णवाकारं समाजं सहपूर्वज:।।44।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कुवलपीडवधे एकोनत्रिंशअध्याय:।