अहं त्वस्याद्य वसतिं पूजयिष्ये यथाविधि।
विष्णुत्वं मनसा चैव पूजयिष्यामि मन्त्रवत्।।36।।
यच्च ज्ञाति परिज्ञानं प्रादुर्भावश्च वै नृषु।
अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुष:।।37।।
सोऽहं कृष्णेन वै रात्रौ सम्मन्त्र्य विदितात्मना।
सहानेने गमिष्यामि सव्रजो यदि मंस्यते।।38।।
एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणै:।
विवेश नन्दगोपस्य कृष्णेन सह संसदम्।।39।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णपर्वणि अक्रूररागमने पंचविंशोअध्याय:।