अयमास्थाय वसुधां स्थापयित्वा जगद् वशे।
राज्ञां भविष्यत्युपरि न च राजा भविष्यति।।31।।
नूनं त्रिभि: क्रमैर्जित्वा यथानेन प्रभु: कृत:।
पुरा पुरंदरो राजा देवतानां त्रिविष्टपे।।32।।
तथैव वसुधां जित्वा जितपूर्वां त्रिभि: क्रमै:।
स्थापयिष्यति राजानमुग्रसेनं न संशय:।।33।।
प्रसृष्टवैरगाधोऽयं प्रश्नैश्च बहुभि: श्रुत:।
ब्राह्मणैर्ब्रह्मवादैश्च पुराणोऽयं हि गीयते।।34।।
स्पृहणीयो हि लोकसय भविष्यति च केशव:।
तथा ह्यस्योत्थिता बुद्धिर्मानुष्यमुपजीवितुम्।।35।।