किमर्थं तेन ते बालास्तदा चापहृता: प्रभो:।
यच्च् ते दीर्घमध्वानं संक्षिप्तं तत् कथनं पुन:।।6।।
कथं चाल्पेनन कालेन जातं नस्तंदुगतागतम्।
एतत् सर्वं यथावृत्त माचक्ष्वस मम केशव।।7।।
वासुदेव उवाच
मद्दर्शनार्थं ते बाला हृतास्तेन महात्ममना।
विप्रार्थमेष्यतते कृष्णो नागच्छेदन्यथेति ह।।8।।
ब्रह्म तेजोमयं दिव्यं महद् यद् दृष्टवानसि।
अहं स भरतश्रेष्ठ मत्तेमस्स्त सनातनम्।।9।।
प्रकृति: स मम परा व्यक्ताव्यक्ता सनातनी।
यां प्रविश्य: भवन्तीह मुक्ता योगविदुत्तमा:।।10।।