सा सांख्यानां गति: पार्थ योगिनां च तपस्विनाम्।
तत् पदं परमं ब्रह्म सर्वं विभजते जगत्।।11।।
मामेव तद् घनं तेजो ज्ञातुमर्हसि भारत ।
समुद्र: स्तब्धतोयोऽहमहं स्तम्भयिता जलम्।।12।।
अहं ते पर्वता: सप्त ये दृष्टा विविधास्त्वया।
पंकभूतं हि तिमिरं दृष्टतवानसि यद्धि तत्।।13।।
अहं तमो घनीभूतमहमेव च पाटक:।
अहं च कालो भूतनां धर्मश्चाहं सनातन:।।14।।
चन्द्रादित्यौ महाशैला: सरितश्च सरांसि च।
चतस्तत्रश्च दिश: सर्वा ममैवात्मा चतुर्विध:।।15।।