नारदस्तुम्बुरुश्चैव हाहाहूहूश्च गायना:।
अप्सरोभि: परिवृता: सर्वे तत्रावतस्थिरे।।51।।
देवराजप्रतीहारो गन्धर्वश्चित्रमद्भुतम्।
शशंस देवराजाय वज्रिणे तद्विचेष्टितम्।।52।।
शम्बरस्य शतं पुत्रा एक: कृष्णस्य चात्मज:।
बहूनां युध्यतामेष कथं विजयमाप्नु्यात्।।53।।
तच्छ्रुत्वा भाषितं तस्य प्रहस्य बलसूदन:।
उवाच वचनं चेदं श्रृणु योऽस्य पराक्रम:।।54।।
कामोऽयं पूर्वदेहे तु हरक्रोधाग्निना हत:।
रत्या प्रसादितो देव: कामपत्न्या त्रिलोचन:।
परितुष्टेन देवेन वरमस्या: प्रदीयते।।55।।