तत: पुरुषसिंहैर्या यदुभि: सर्वतो वृता।
सर्वार्थगुणसम्पेन्ना सा सभा भरतर्षभ।
शुशुभेऽभ्यधिकं शुभ्रा सिंहैर्गिरिगुहा यथा।।16।।
रामेण सह गोविन्द: काञ्चनं महदासनम्।
उग्रसेनं पुरस्कृत्य भोजवृष्णिपुरस्कृत:।।17।।
तत्रोपविष्टांस्तान् वीरान् यथाप्रीति यथावय:।
समाभाष्य यदुश्रेष्ठानुवाच पुरुषोत्तम:।।18।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुुपर्वणि सभाप्रवेशनं नाम शततमोऽध्याय:।