उपगम्य तथा शेषान् सत्कृत्य च यथार्हत:।
सवेषां नाम जग्राह दाशार्हाणामधोक्षज:।।11।।
तत: सर्वाणि दिव्यानि सर्वरत्नमयानि च।
आसानाग्रयाणि विविशुरुपेन्द्रप्रमुखास्तरदा।।12।।
ततस्तयद्धनमक्षप्यं किंकरैर्यत्समाहृतम्।
तत्सभामानयामासु: पुरुषा: कृष्णमशासनात्।।13।।
तत: सम्मानयामास दाशार्हांश्च यदूत्तम:।
सर्वान् दुन्दुभिशब्देरन पूजयिष्यंञ्जनार्दन:।।14।।
तामासनवतीं रम्यां मणिविद्रुमतोरणाम्।
सभां सर्वदशार्हास्ते विविशु: कृष्णूशासनात्।।15।।