भगवत्युवाच
निर्वेष्टव्यं शरीरं यैर्व्रतकै: पुण्यकैरपि।
अरुन्धति प्रवक्ष्यामि सहैताभिर्वरेण तु।।1।।
कृष्णाष्टमीं या क्षिपति स्याद् वा मूलफलाशिनी।
ब्राह्मणायैकमशनं स्वं दत्वा भर्तृदेवता।।2।।
शुक्लवस्त्रा शुभाचारा गुरुदैवतपूजका।
एवं संवत्सरं कृत्वा ततो दद्याद् द्विजातये।।3।।
गोवालरज्जुसुकृतं चामरं च ध्वजं तथा।
दक्षिणापूर्णमिष्टासन्नं शक्त्या वापि शुचिव्रते।।4।।
ऊर्मिमन्त: स्वरालाग्रा: श्रोणिदेशावलम्बिन:।
तस्या भवन्ति केशास्तु भक्तिमत्या हि भर्तरि।।5।।