यावकं च बलिं दद्याद् दग्धा् च सह संयुतम्।
एवं या कुरुते नित्यं सर्वान् कामानवाप्नुयात्।।70।।
अदृष्ट्वा या तु नाश्नांति सूर्य नारी पतिव्रता।
दुर्दिने वाथवा व्यभ्रेसेष्टान् कामानवाप्नुयात्।।71।।
कांचनं शक्तितो दद्यात् सा विप्राय मनस्विनी।
सुभगा दर्शनीया च भवत्यमरवर्णिनी।।72।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथने एकोनाशीतितमोऽध्याय:।