धनुस्त्रिवर्णं वरगात्रि पश्या कृतं तवापांगमिवाननस्थम्।
विभूषयन्तं गगनं घनाश्चं प्रहर्षणं कामिजनस्य् कान्ते।।6।।
घनान् नदन्त्: प्रतिनर्दमानान् निरीक्ष्य सुश्रोणि शिखीन् प्रहृष्टान्।
समदृतानुद्धतपिच्छंभारान् प्रियाभिरामानुपनृत्यकमानान्।।7।।
हर्म्येषु चान्ये शशिपाण्डुरेषु राजन्ति सुश्रोणि मयूरसंघा:।
मुहूर्तशोभामतिचारुरूपां दत्त्वा पतन्तो वलभीपुटेषु।।8।।
प्रक्लिन्नापक्षास्तरुमस्तुकेषु मुहूर्तचूडामणितां विधाय।
प्रयान्ति भूमिं नवशाद्वलानामाशंकमाना धृतचारुदेहा:।।9।।
प्रवाति धारान्तरनि:सृतश्च सुखऽनिलश्चन्द नपंकशीत:।
कदम्बसर्जार्जुनपुष्पाभूतं समावहन् गन्धमनंगबन्धुम्।।10।।