अप्रशान्तयमहातूर्या गीतनृत्योपशोभिता:।
बभूवु: सागरक्रीडा भैमानामतितेजसाम्।।76।।
बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम्।
रुद्धा चिक्रीडुरिन्द्राभा भैमा: कृष्णाभिरक्षिता:।।77।।
परिच्छदस्या्नुरूपं यानपात्रं महात्मन:।
नारायणस्य देवस्य विहितं विश्वकर्मणा।।78।।
रत्नानि यानि त्रैलोक्ये विशिष्टानि विशाम्पते।
कृष्णस्य तानि सर्वाणि यानपात्रेऽतितेजस:।।79।।
पृथक्पृथंनिवासाश्च स्त्रीणां कृष्णस्य भारत।
मणिवैडूर्यचित्रास्ता: कार्तस्वरविभूषिता:।।80।।
सर्वर्तुकुसुमाकीर्णा: सर्वगन्धाधिवासिता:।
यदुसिंहै: शुभैर्जुष्टा: शकुनै: स्वछर्गवासिभि:।।81।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णपर्वणि भानुमतीहरणे अष्टाशीतितमोऽध्याय:।