या वंचयन्ति भर्तारं योनिदुष्टाश्च या: स्त्रिय:।
योनिदोषात् पुण्याफलं नाश्ननन्ति निरयंगमा:।।6।।
साध्व्यो जगद् धारयन्ति सुशीला: पतिदेवता:।
अनन्या धर्मनित्याश्च सतीपन्थानमाश्रिता:।।7।।
अवाग्दुष्टा: शौचयुक्ता धृतिमत्य: शुभव्रता:।
सततं साधुवादिन्यो धारयन्ति जगत् खलु।।8।।
व्याधित: पतितो वापि दीनो वापि कथंचन।
न त्यक्तव्य: स्त्रिया भर्ता धर्म एष सनातन:।।9।।
अकार्यकारिणं वापि पतितं वापि निर्गुणम्।
स्त्री पतिं तारयत्येव तथाऽऽत्मानं शुभानने।।10।।