इदमत्यद्भुतं कर्म रामसय कथितं भुवि।
भाण्डीरे कथितं राजन् यत् कृतं शौरिणा पुरा।।16।।
प्रलम्बं मुष्टिनैकेन यज्जघान हलायुध:।
धेनुकं तु महावीर्य चिक्षेप नगमूर्द्धनि।
स गतायु: पपातोर्व्यां दैत्यो गर्दभरूपधृक्।।17।।
लवणजलगमा महानदी द्रुतजलवेगतरंगमालिनी।
नगरमभिमुखं यदा हृता हलविधृता यमुना यमस्वसा।।18।।
बलदेवस्य माहात्म्यमेतत्ते कथितं मया।
अनन्तस्याप्रमेयस्य शेषस्य धरणीभृत:।।19।।
इति पुरुषवरस्य लांगलेर्बहुविधमुत्तममन्यदेव च।
यदकथितमिहाद्य कर्म ते तदुपलभस्व पुराणविस्तरात्।।20।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवमाहात्म्ये द्विषष्टितमोऽध्याय:।