कृतौ च युद्धकुशले नित्ययाजिनि पातिते ।
वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन्।।56।।
वैशम्पायन उवाच
रुक्मिणी च महाभागा विलपन्त्यार्तया गिरा।
विलपन्तीं तथा दृष्ट्वा सान्त्वयामास केशव:।।57।।
एतत् ते सर्वमाख्यातं रुक्मिणो निधन यथा।
वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ।।58।।
वृष्णयोऽपि महाराज धनान्यादाय सर्वश:।
रामकृष्णौ समाश्रित्य ययुर्द्धारवतीं प्रति।।59।।
इति श्रीमहाभारते खिलभागे विष्णुपर्वणि रुक्मिवधो नामैकषष्टितमोऽध्याय:।