इति तद्वचनस्यान्ते गमिष्येति विचिन्तेयन्।
कृतांञ्जलिपुट: श्रीमान् प्रणिपत्याब्रवीदिदम्।।6।।
गरुड उवाच
देव यास्यामि नगरीं रैवतस्य कुशस्थलीम्।
रैवतं च गिरिं रम्यं नन्दनप्रतिमं वनम्।।7।।
रुक्मिणोद्वासितां रम्यां शैलोदधितटाश्रयाम्।
वृक्षगुल्मवलताकीर्णां पुष्परेणुविभूषिताम्।।8।।
गजेन्द्र भुजगाकीर्णामृक्षवानरसेविताम्।
वराहमहिषाक्रान्तांग मृगयूथैरनेकश:।।9।।
तां समन्तात् समालोक्य: वासार्थं ते क्षमां क्षमा।
यदि स्याद् भवतो रम्या प्रशस्ता नगरीति च।।10।।
कण्टसकोद्धरणं कृत्वा् आगमिष्ये तवान्तिकम्।