बलं सम्मर्दभग्नं च कृष्यमाणं परेणह।
असंशयमिदं राष्ट्रं जनै: सह विनङ्क्ष्यति।।61।।
यादवानां विरोधेन ये जिता राज्यनकामुकै:।
ते सर्वे द्वैधमिच्छन्ति यत् क्षमं तद् विधीयताम्।।62।।
वंचनीया भविष्यािमो नृपाणां नृपकारणात्।
जरासधभयार्तानां द्रवतां राज्यसम्भ्रमे।।63।।
आर्ता वक्ष्यन्ति न: सर्वे रुधयमाना: पुरे जना:।
यादवानां विरोधेन विनष्टा: स्मेेति केशव।।64।।
एतन्मम मतं कृष्ण विस्त्रम्भात् समुदाहृतम्।
त्वं तु विज्ञापित: पूर्वं न पुन: सम्पबोधित:।।65।।
यदत्र व: क्षमं कृष्ण तच्चर वै संविधीयताम्।
त्वमस्यं नेता सैन्यस्य वयं त्वाच्छासने स्थिता:।
त्वन्मूलश्च विरोधोऽयं रक्षास्मानात्मना सह।।66।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नामाष्टात्रिंशोऽध्याेय:।