वसुदेवसय भवनं ततस्तौ यदुनन्दनौ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम्।।41।।
परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ।
तावायुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ।।42।।
मुमुदाते यदुवरौ वसुदेवसुतावुभौ।
उद्यानेषु विचित्रेषु फलपुष्पावनामिषु।।43।।
चेरतु: सुमहात्मानौ यादवै: परिवारितौ।
रैवतस्य समीपेषु सरित्सु विमलासु च।।44।।
पद्मपत्रविवृद्धासु कारण्डवयुतासु च।
एवं तावेकनिर्माणौ मथुरायां शुभाननौ।
उग्रसेनानुगौ भूत्वा कंचित् कालं मुमोदतु:।।45।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्याय:।