को न: कोपपरीतांगी रतिसंसर्गलालसा:।
लता इव विचेष्टन्ती: शयनीयानि नेष्यति।।6।।
इदं तेऽसदृशं सौम्य हृद्यनि: श्वासमारुतम्।
दहत्यर्को मुखं कान्तं निस्तायमिव पंकजम्।।7।।
इमे ते श्रवणे शून्ये न शोभेते विकुण्डले।
शिरोधरायां संलीने सततं कुण्डलप्रिये।।8।।
क्व ते स मुकुटो वीर सर्वरत्नविभूषित: ।
अत्यर्थं शिरसो लक्ष्मीं यो दधारार्कसप्रभाम्।।9।।
अनेन हि कलत्रेण तवान्त:पुरशोभिना।
कथं दीनेन कर्तव्य त्वयि लोकान्तरं गते।।10।।