अन्त: पुरचराणां च प्रक्षागाराण्यनेकश:।
रेज: कांचनचित्राणि रत्नज्वालाकुलानि च।।6।।
तानि रत्नौघक्लृप्तानि ससानुप्रग्रहाणि च।
रेजुर्जवनिकाक्षेपै: सपक्षा इव खे नगा:।।7।।
तत्र चामरहारैश्च भूषणानां च सिंचितै:।
मणीनां च विचित्राणां विचित्राश्चेरुरर्चिष:।।8।।
गणिकानां पृथङ्मंचा: शुभेरास्तरणाम्बरै:।
शोभिता वारमुख्याभिर्विमानप्रतिमौजस:।।9।।
तत्रासनानि ख्यातानि पर्यंकाश्च हिरण्मया:।
प्रकीर्णाश्च कुथाश्चित्रा: सपुष्पस्तबकैर्वृता:।।10।।