सततं पीड्यमानं च कंसेनाशुभबुद्धिना।
दशान्ते शोषितं वृद्धं दु:खै: शिथिलतां गतम्।।6।।
कंसस्य भयसंत्रस्तं भवद्भयां च विना कृतम्।
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना।।7।।
तां च द्रक्ष्यसि गोविन्द पु्त्रैरमृदितस्तनीम्।
देवकी देवसंकाशां सीदन्तीं विहतप्रभाम्।।8।।
पुत्रशोकेन शुष्यन्तीं त्वद्दर्शनपरायणाम्।
वियोगशोकसंतप्तां विवत्सामिव सौरभीम्।।9।।
उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम्।
स्वर्भानुवदनग्रस्तां शशांकस्य प्रभामिव।।10।।