आसनं चाग्निवर्णाभं विसृज्योपजहार स: ।
नषसादासने तस्मिन् स वै शक्रसखो मुनि: ।।6।।
उवाच चोग्रसेनस्य सुतं परमकोपनम् ।
पूजितोअहं त्वया वीर विधिदृष्टेन कर्मणा ।।7।।
गते त्वेवं मम वच: श्रूयतां गृह्यतां त्वया।
अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान्।।8।।
गत: सूर्यसखं तात विपुलं मेरुपर्वतम् ।
सनन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम्।।9।।
आप्लुतं सर्वतीर्थेषु सरित्सु सह दैवतै:।
दिव्या त्रिधारा दृष्ट्वा मे पुण्या त्रिपथगा नदी।।10।।