आज्ञाप्यतां हय: केशी प्रलम्बो धेनुकस्तथा।
अरिष्टो वृषभश्चैव पूतना कालियस्तथा ।।26।।
अटध्वं पृथिवीं कृत्स्त्रां यथेष्टं कामरूपिण: ।
प्रहध्वं च सर्वेषु येअस्माकं पक्षदूषका: ।। 27।।
गर्भस्थानामपि गतिर्विज्ञेया चैव देहिनाम् ।
नारदेन हि गर्भेभ्यो भयं न: समुदाह्यतम् ।।28।।
भवन्तो हि यथाकामं मोदन्तां विगतज्वरा: ।
मां च वो नाथमाश्रित्य नास्ति देवकृतं भयम् ।।29।।
स तु केलिकिलो विप्रो भेदशीश्च नारद: ।
सुश्लिष्टानपि लोकेअस्मिन् भेदयँल्लभते रतिम् ।।30।।
कण्डूयमान: सततं लोकानटति चञ्चल:।
घटमानो नरेन्द्राणां तन्त्रैर्वैराणि चैव हि।।31।।
एवं स विलपन्नेव वाङ्मात्रेणैव केवलम्।
विवेश कंसो भवनं दह्यमानेन चेतसा ।।32।।
इति श्रीमहाभारते खिलभागे हरिवशे विष्णुपर्वणि नादागमने कंसवाक्ये प्रथमोअध्याय:।