भवद्भिश्चण्डवर्षेण चरता मारुतेन च।
हतास्ता: सव्रजा गावस्त्यक्ष्यन्ति भूवि जीवितम्।।6।।
एवमाज्ञापयामास सर्वांजलधरान् प्रभु:।
प्रत्याहते वै कृष्णेन शासने पाकशासन:।।7।।
ततस्ते जलदा: कृष्णा घोरनादा भयावहा:।
आकाशं छादयामासु: सर्वत: पर्वतोपमा:।।8।।
विद्युतसम्पातजनना: शक्रचापविभूषिता:।
तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा।।9।।
गजा इवान्यसंयुक्ता: केचिन्मकरवर्चस:।
नागा इवान्ये गगने चेरुर्जलदपुंगवा:।।10।।