फलै: प्रवालैश्च घनमिन्द्रचापघनोपमम्।
भवनाकरविटपं लतापरममण्डितम्।।41।।
विशालमूलावनतं पवनाभोगमण्डितम्।
अर्चयामो गिरिं देवं गाश्चैव च विशेषत:।।42।।
सावतंसैर्विषाणैश्च बर्हापीडैश्च दंशितै:।
घण्टाभिश्च प्रलम्बाभि: पुष्पै शारदिकैस्तथा।।43।।
शिवाय गाव: पूज्यन्तां गिरियज्ञ: प्रवर्त्यताम्।
पूज्यतां त्रिदशै: शक्रो गिरिरस्माभिरिज्यताम्।।44।।
कारयिष्यामि गोयज्ञं बलादपि न संशय:।
यद्यस्ति मयिव: प्रीतिर्यदि वा सुह्रदो वयम्।
गावो हि पूज्या: सततं सर्वेषां नात्र संशय:।।45।।
यादि साम्ना भवेत् प्रीतिर्भवतां वैभवाय च।
एतन्मम वचस्तथ्यं कियतामविचारितम्।।46।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शरद्वर्णने षोडशोअध्याय:।