कन्यापुरे कुमारोऽसौ बद्धो नागैश्च माधव।
एतस्मिन्नन्तरे शीघ्रं चित्रलेखा ह्युपस्थिता।।6।।
बाणस्योत्तमशर्वस्य दैत्येन्द्रस्य महात्मन:।
इदमन्त: पुरं देव प्रविशस्व यथासुखम्।।7।।
तत: प्रविष्टास्तेश सर्वे ह्यनिरुद्धस्य मोक्षणे।
बल: सुपर्ण: कृष्णवस्तु प्रद्युम्नो नारदस्तथा।।8।।
ततो दृष्टैव गरुडं येऽनिरुद्धशरीरगा:।
शररूपा महासर्पा वेष्टयित्वा तनुं स्थिता:।।9।।
ते सर्वे सहसा देहात् तस्य नि:सृत्य भोगिन:।
क्षितिं समभिवर्तित्वा प्रकृत्यावस्थिता: शरा:।।10।।