गरुड उवाच
दृश्यन्ते गाव एतास्ता दृष्ट्वा मां वरुणालयम्।
विशन्ति सहसा सर्वा: कार्यमत्र विधीयताम्।।51।।
इत्युतक्वा चैव गरुड: पक्षवातेन सागरम्।
सहसा क्षोभयित्वा च विवेश वरुणालयम्।।52।।
दृष्ट्वा जवेन गरुडं प्राप्तं वै वरुणालयम्।
वारुणाश्च गणा: सर्वे विभ्रान्ताै: प्राचलंस्तदा।।53।।
ततस्तु वारुणं सैन्यमभियातं सुदुर्जयम्।
प्रमुखे वासुदेवस्य नानाप्रहरणोद्यतम्।
तद् युद्धमभवद् घोरं वारुणै: पन्न गारिणा।।54।।
तेषामापततां संख्ये वारुणानां सहस्रश:।
भग्नं बलमनाधृष्यं केशवेन महात्मना।।55।।