कुम्भाण्ड मन्त्रिणां श्रेष्ठ प्रीतोऽस्मि तव सुव्रत।
सुकृतं ते विजानामि राष्ट्रिकोऽस्तु भवानिह।।26।।
सज्ञातिपक्ष: सुसुखी निर्वृतोऽस्तु भवानिह।
राज्यं च ते मया दत्तं चिरं जीव ममाश्रयात्।।27।।
एवं दत्त्वा राज्यमस्मैं कुम्भाण्डाय महात्माने।
विवाहमकरोत् तस्यानिरुद्धस्य जनार्दन:।
ततस्तु भगवान् वह्निस्तत्र स्वयमुपस्थित:।।28।।
स विवाहोऽनिरुद्धस्य नक्षत्रे च शुभेऽभवत्।
ततोऽप्सोरोगणश्चैव कौतुकं कर्तुमुद्यत:।।29।।
स्नातस्त्वलंकृतस्तंत्र सोऽनिरुद्ध: स्वयभार्यया।
तत: स्निग्धै: शुभैर्वाक्यैर्गन्धर्वाश्च जगुस्तदा।।30।।
नृत्यन्त्यप्सरसश्चैव विवाहमुपशोभयन्।