सखीगणवृता चैव सा चोषा भवने स्थिता।
बलं चातिबलं चैव वासुदेवं सुदुर्जयम्।।16।।
असंख्यातगतिं चैव सुपर्णमभिवाद्य च।
पुष्पबाणधरं चैव लज्जसमानाभ्यवादयत्।।17।।
तत: शक्रस्य वचनान्नारद: परमद्युति:।
वासुदेवसमीपं स प्रहसन् पुनरागत:।।18।।
वर्द्धापयति तं देवं गोविन्दं शत्रुसूदनम्।
दिष्ट्या वर्द्धसि गोविन्द अनिरुद्धसमागमात्।।19।।
ततोऽनिरुद्धसहिता नारदं प्रणता: स्थिता:।
आशीर्भिर्वर्द्धयित्वा च देवर्षि: कृष्णमब्रवीत्।।20।।