कार्तवीर्यार्जुनो नाम पूर्वं बाहुसहस्र वान्।
महाबल: स रामेण द्विबाहु: समरे कृत:।।96।।
तथा तवापि दर्पोऽयं बाहूनां वीर्यसम्भव:।
एष ते दर्पशमनं करोमि रणमूर्द्धनि।।97।।
यावत् ते दर्पशमनं करोम्यद्य स्व बाहुना।
तिष्ठेदानी न मेऽद्य त्वं मोक्ष्यसे रणमूर्द्धनि।।98।।
अथ तद् दुर्लभं दृष्ट्व युद्धं परमदारुणम्।
तत्र दुवासुरसमे युद्धे नृत्यति नारद:।।99।।
निर्जिताश्चर गणा: सर्वे प्रद्युम्ने न महात्मीना।
निक्षिप्तवादा युद्धस्य देवदेवं गता: पुन:।।100।।