अपयान्तं गुहं दृष्ट्वा मुक्तं कृष्णेन संयुगात्।
बाणश्चिन्तयते तत्र स्वयं योत्स्यामि माधवम्।।31।।
वैशम्पायन उवाच
भूतयक्षगणाश्चैव बाणानीकं च सर्वश:।
दिशं प्रदुद्रुवु: सर्वे भयमोहितलोचना:।।32।।
प्रमाथगणभूयिष्ठे सैन्ये दीर्णे महासुर:।
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन्।।33।।
भीमप्रहरणैर्घोरैर्दैत्येन्द्रै सुमहारथै:।
महाबलैर्ममहावीरैर्वज्रव सुरसत्तमै:।।34।।
पुरोहिता: शत्रुवधं वदन्तस्तथैव चान्ये श्रुतशीलवृद्धा:।
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मन: स्वस्ययनं प्रचक्रु:।।35।।