शोणितौघप्लुतैर्गात्रैर्नन्दिवाक्यप्रचोदित:।
जीवितार्थी ततो बाण: प्रमुखे शंकरस्य वै।।146।।
अनृत्यद् भयसंविग्नो दानव: स विचेतन:।
तं दृष्ट्वा च प्रनृत्यन्तं भयोद्विग्नं पुन: पुन:।।147।।
नन्दिवाक्यप्रजवितं भक्तानुग्रहकृद् भव:।
करुणावशमापन्नो् महादेवोऽब्रवीद् वच:।।148।।
ईश्वर उवाच
वरं वृणीष्व बाण त्वं मनसा यदभीप्ससि।
प्रसादसुमुखस्तेऽहं प्रियोऽसि मम दानव।।149।।
बाण उवाच
अजरश्चामरश्चैव भवेयं सततं विभो।
एष मे प्रथमो देव वरोऽस्तु यदि मन्यसे।।150।।