ततो दिव्यं रथं दृष्ट्वां रुद्रस्याक्लिष्ट कर्मण:।।26।।
कृष्णो गरुडमास्थाय ययौ रुद्राय संयुगे ।
वैनतेयस्थंमास्यन्तमायान्तसमग्रणीं हरिम्।।27।।
विव्याध कुपितो बाणैर्नाराचानां शतेन स: ।
स शरैरर्दितस्तेन हरेणाक्लिष्टकर्मणा।।28।।
हरिर्जग्राह कुपितो ह्यस्त्रं पार्जन्यमुत्तमम्।
प्रचचाल ततो भूमिर्विष्णुरुद्रप्रपीडिता।।29।।
नागाश्चोर्ध्वमुखास्तरत्र विचेलुरभिपीडिता:।
पर्वता: पतितास्तत्र जलधाराभिराप्लुता: ॥30॥
केचिन्मुमुचिरे तत्र शिखराणि समन्तत:।