अहमेको ज्वरस्तात नान्यो लोके ज्वारो भवेत्।
त्वेत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम्।।16।।
वासुदेव उवाच
एवं भवतु भद्रं ते यथा त्वंर ज्वार कांक्षसे।
वरार्थिनां वरो देयो भवांश्च शरणं गत:।।17।।
एक एव ज्वंरो लोके भवानस्तु यथा पुरा।
योऽयं मया ज्वर: सृष्टो मय्येवैष प्रलीयताम्।।18।।
वैशम्पायन उवाच
एवमुक्ते तु वचने ज्वरं प्रति महायशा:।
कृष्ण्: प्रहरतां श्रेष्ठ: पुनर्वाक्यमुवाच ह।।19।।
वासुदेव उवाच
श्रृणुष्व ज्वर संदेशं यथा लोके चरिष्यसि।
सर्वजातिषु विश्रब्धं यथा स्थावरजंगमे।।20।।