अथागमत् तत: कृष्णो यत्र बाणपुरं तत:।
अथ बाणपुरं दृष्ट्वा दूरात् प्रोवाच नारद:।।41।।
एतत् तच्छोणितपुरं कृष्ण पश्य महाभुज।
अत्र रुद्रो महातेजा रुद्राण्या सहितोऽवसत्।।42।।
गुहश्च बाणगुप्यर्थं सततं क्षेमकारणात्।
नारदस्यद वच: श्रुत्वाय कृष्ण समप्रहसन् ब्रवीत्।।43।।
क्षणं चिन्त यतामत्र श्रूयतां च महामुने।
यदि वावतरेद् रुद्रो बाणसंरक्षणं प्रति।।44।।
शक्तितो वयमप्यत्र सह योत्स्याम तेन वै।
एवं विवदतोस्तत्र कृष्णनारदयोस्तदा।।45।।
प्राप्ता निमेषमात्रेण शीघ्रगा गरुडेन ते।