अहो वीर्यमथाग्नेस्तु यो दहेद् युगसंक्षये।
यथेह वर्णवैरूप्यं चक्रे कृष्णस्य धीमत:।।21।।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मति:।
कृष्ण: संकर्षणश्चै्व प्रद्युम्नश्च महाबल:।।22।।
तत: प्रशान्तें दहने सम्प्रतस्थे स पक्षिराट्।
स्वपक्षबलविक्षेपं कुर्वन् घोरं महास्वनम्।।23।।
तं दृष्ट्वा विस्मयं तत्र रुद्रस्यानुचराग्नय:।
आस्थिता गरुडं ह्येते नानारूपा भयावहा:।।24।।
किमर्थमिह सम्प्राप्ता: के वापी मे जनास्त्रय:।
निश्चयं नाधिगच्छन्ति ते गिरिव्रजवह्नय:।।25।।
प्रावर्तयंश्च संग्रामं तैस्त्रिभि: सह यादवै:।