प्रणम्याथ वच: प्राह वैनतेयो महाबल:।
वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा।।96।।
गरुड उवाच
पद्मनाभ महाबाहो किमर्थं संस्मृतो ह्यहम्।
कृत्यं ते यदिहात्रास्ति श्रोतुमिच्छामि तत्त्वभ त:।।97।।
कस्य पक्षपरिक्षेपैर्नाशयामि पुरीं प्रभो।
प्रभावात्तव गोविन्दश को न विद्याद् बलं मम।।98।।
गदावेगं च ते वीर चक्राग्निं च महाभुज।
नावबुध्यति मूढात्मा को दर्पान्नायशमेष्यति।।99।।
हल सिंहसुखं कस्य वनमाली नियोक्ष्यति।
कस्य देहस्तु निर्भिन्नो मेदिनीं यास्यति प्रभो।।100।।