नारद उवाच
किमेवं चिन्तयाविष्टा: नि:संगा गतमानसा:।
उत्सांहहीना: सर्वे वै क्लीबा इव समासते।।76।।
इत्येंवमुक्ते वचने नारदेन महात्मना।
वासुदेवोऽब्रवीद् वाक्यं श्रूयतां भगवन्निदम्।।77।।
अनिरुद्धो हृतो ब्रह्मन् केनापि निशि सुव्रत।
यस्यार्थं सर्व एवास्म चिन्तयाविष्टचेतस:।।78।।
एष ते यदि वृत्तान्ता: श्रुतो दृष्टोऽपि वा मुने।
भगवन् कथ्यतां साधु प्रियमेतन्ममानघ।।79।।
इत्येवमुक्ते वचने केशवेन महात्मतना।
प्रहस्यैतद् वच: प्राह श्रूयतां मधुसूदन।।80।।