वैशम्पायन उवाच
इत्येवमुक्ते् वचने कृष्णेन तु महात्मना।
अथावगम्य तत्त्वेन यद् भूतं यदुमण्डले।
उदतिष्ठयन्महानादस्तदा कृष्णं प्रशंसयन्।।61।।
हर्षयन् स तु सर्वेषां सूतमागधवन्दिनाम्।
मधुर: श्रूयते घोषो यादवस्य निवेशने।।62।।
ते चारा: सर्वत: सर्वे सभाद्वारमुपागता:।
शनैर्गद्गदया वाचा इदं वचनमब्रुवन्।।63।।
उद्यानानि गुहा: शैला: सभा नद्य: सरांसि च।
एकैकं शतशो राजन् मार्गितं न च दृश्याते।।64।।
अन्ये कृष्णं चरा राजन्नु पागम्य तदाब्रुवन्।
सर्वे नो विदिता देशा: प्राद्युम्निर्न च दृश्यते।।65।।