अथ सोऽपश्यत बलं नानाप्रहरेणोद्यतम्।
स्थितं समन्ततस्तत्र परिवार्य गृहं महत्।।91।।
ततोऽभ्यसगच्छत् त्वरितो यत्र तद्वेष्टितं बलम्।
क्रुद्ध: स्वबलमास्थाय अदशद् दशनच्छदम्।।92।।
ततो याद्धुमपोढानां बाणेयानां निशम्या तु।
सा चित्रलेखास्मरत नारदं देवदर्शनम्।।93।।
ततो निमेषमात्रेण सम्प्राप्तो मुनिपुंगव:।
स्मृनतोऽथ चित्रलेखाया: पुरं शोणितसाह्वयम्।।94।।
अन्तरिक्षे स्थितस्तत्र सोऽनिरुद्धमथाब्रवीत्।
मा भयं स्वस्ति ते वीर प्राप्तोऽरम्यद्य पुरं तव।।95।।