सखीभि: सहिताह्यूषा चिन्तयन्ती तु सा स्थिता।
तृतीये तु मुहूर्ते सा नष्टा बाणपुरात् तदा।।96।।
सखीप्रियं चिकीर्षन्ती पूजयन्ती तपोधनान्।
क्षणेन समनुप्राप्ता द्वारकां कृष्णापालिताम्।।97।।
कैलासशिखाराकारै: प्रासादैरुपशोभिताम्।
ददर्श द्वारकां रम्यां दिवि तारामिव स्थिताम्।।98।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुरपर्वणि उषाहरणे चित्रलेखाया द्वारकागमने अष्टा्दशाधिकशततमोऽध्याय:।