इत्येवमुक्तां रुदतीं बाष्पेवणावृतलोचनाम्।
कुम्भासण्डदुहिता वाक्यं परमं त्विदमब्रवीत्।।26।।
त्यज शोकं विशालाक्षि अपापा त्वं वरानने।
श्रुतं मे यदिदं वाक्यं याथातथ्येन तच्छृणु।।27।।
उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा।
समीपे देवदेवस्य स्मर भामिनि तद् वच:।।28।।
द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि।
हर्म्ये शयानां रुदतीं स्त्रीत्वं समुपनेष्यति।।29।।
भविता स हि ते भर्ता शूर: शत्रुनिबर्हण:।
इत्युवाच वचो हृष्टा: देवी तव मनोगतम्।।30।।
न हि तद् वचनं मिथ्या पार्वत्या यदुदाहृतम्।