लज्जा्वती महाभागा मातरं रुदती भृशम्।
मातर्न रोचते नित्यं भाषणं न च भोजनम्।।61।।
न चाप्युत्सवकं मात: सदाहं हृदयं श्रृणु।
इत्युक्वा विररामाथ ह्युषा नारी वरानना।।62।।
सवार्भि: स्त्री भिरारब्धममन्योन्यं मुखवीक्षणम्।
लज्जाभनुकारि नारीणां यौवनं हि भवेदिति।।63।।
इयं च राजकन्या हि भर्तृयोग्या किमुच्यते।
पितु: प्रसादान्मारतुश्च प्राप्नुयात् सदृशं वरम्।।64।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुवपर्वणि बाणयुद्धे उषाविरहो नाम सप्तशदशाधिकशततमोऽध्याय:।