उषे त्वं शीघ्रमप्येवं भर्त्रा सह रमिष्यासि।
यथा देवो मया सार्धं शंकर: शत्रुनाशन:।।16।।
एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा।
उषा भावं तदा चक्रे भर्त्रा रंस्ये् कदा सह।।17।।
तदा हैमवती वाक्यं सम्प्रहस्येदमब्रवीत्।
उषे श्रृणुष्व वाक्यं मे यदा संयोगमेष्यसि।।18।।
वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वां दिनक्षये।
रमयिष्यति य: स्वप्नें स ते भर्ता भविष्यति।।19।।
एवमुक्ता दैत्यसुता कन्यागणसमावृता।
अपाक्रामत हर्षेण रममाणा यथासुखम्।।20।।