पृथिवी वायुराकाशमापो ज्योतिश्च पंचमम्।
चन्द्रादित्यावहोरात्रं पक्षा मासास्तमथर्तव:।
मुहूर्ताश्च कलाश्चैव क्षणा: संवत्सरास्तथा।।21।।
मन्त्राश्च विविधा: पार्थ यानि शास्त्राणि कानिचित्।
विद्याश्च वेदितव्यं च मत्त: प्रादुर्भवन्ति हि।।22।।
मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत।
सच्चसच्च ममैवात्मा सदसच्चैव यत्परम्।।23।।
अर्जुन उवाच
एवमुक्तोऽसि कृष्णेन प्रीयमाणेन वै तदा।
तथैव च मनो नित्यतमभवन्मे जनार्दने।।24।।
एतच्छ्रुत्वा च दृष्टंव च माहात्म्यं केशवस्यम मे।
यन्मां पृच्छसि राजेन्द्र भूयांश्चातो जनार्दन:।।25।।