जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी।
न च कश्चित् प्रमाणं ते रत्नानां वेत्यते नर:।।11।।
सागरेण तथेत्युक्ते प्रस्थिता: स्मो जलेन वै।
स्तम्भितेन तथा भूमौ मणिवर्णेन भास्वता।।12।।
ततोऽर्णवं समुत्तीर्य कुरूनप्युणत्तरान् वयम्।
क्षणेन समतिक्रान्ता गन्धमादनमेव च।।13।।
ततस्तु पर्वता: सप्त केशवं समुपस्थिता:।
जयन्तो वैजयन्तश्च नीलो रजतपर्वत:।।14।।
महामेरु: सकैलास इन्द्रकूटश्च नामत:।
बिभ्राणा वर्णरूपाणि विविधान्यद्भुतानि च।।15।।